Pushtiswadhyay - Goswamy ShriShyammanoharji

जयति श्रीवल्लभार्यो जयति च विट्ठलेश्वरःप्रभुः श्रीमान्|
पुरुषोत्तमश्च तैश्च निर्दिष्टा पुष्टिपद्धतिर्जयति॥
श्रीवल्लभमताभ्यासे कृपया येन दीक्षितः॥
दीक्षितं तमहं नौमि श्रीतातचरणं सदा॥
श्रीवाक्पतेर्वागनुगामिनां वै सद्यःस्वकर्तव्यविनिश्चयाय|
कृतो मया तद्वचनानुवादः पुष्पोपहारोपम एष नूनम्|
स्वलाभपूजार्थपरायणानां तदीयसिद्धान्तविलोपकानाम्|
भवेत् खलानां खलु मस्तकेषु पदप्रहारोपम एषएव॥