संध्याकाळचे श्लोक Sandhyakalche Shlok | Evening Prayers | Shubham Karoti Kalyanam, Ram Raksha Stotra
Автор: Vision Bhakti Marathi
Загружено: 2025-12-22
Просмотров: 20666
1. शुभंकरोति कल्याणम - 00:35
2. वक्रतुण्ड महाकाय - 1:09
3. गुरुर ब्रह्मा गुरुर विष्णु 1:36
4. कृष्णाय वासुदेवाय 2:04
5. शुक्लाम्बरधरं विष्णुं 2:35
6. पद्मासन स्थिते देवी 3:05
7. सर्वमंगल मांगल्ये 3:35
8. या देवी सर्वभूतेषु 4:05
9. मनोजवं मारुततुल्यवेगमं 4:40
10. त्वमेव माता च पिता त्वमेव 5:15
11. ब्रह्मा मुरारिस्त्रिपुरान्तकारी 5:48
12. सर्वेषां स्वस्ति भवतु 6:25
13. श्री राम रक्षा स्तोत्र 7:31
Title - Sandhyakalche Shlok
Singer - Shubhangi Joshi
VFX - Vision Graphics
Label - Bhakti Vision Entertainment
Lyrics :-
1) शुभं करोति कल्याणम :
शुभं करोति कल्याणम आरोग्यं सुखसंपदा
शत्रुबुद्धिविनाशाय दीपज्योति र्नमोऽस्तुते
2) वक्रतुण्ड महाकाय
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
3) गुरुर ब्रह्मा गुरुर विष्णु
गुरुर ब्रह्मा गुरुर विष्णु गुरुर देवो महेश्वरः
गुरुः साक्षात्परब्रह्मा तस्मै श्री गुरुवे नमः
4) कृष्णाय वासुदेवाय देवकी नन्दनाय च
कृष्णाय वासुदेवाय देवकी नन्दनाय च
नन्दगोप कुमाराय गोविन्दाय नमो नमः
5) शुक्लाम्बरधरं विष्णुं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
6) पद्मासन स्थिते देवी
पद्मासन स्थिते देवी परब्रह्म स्वरूपिणी!
परमेशी जगत माता महालक्ष्मी नमोस्तुते
7) सर्वमंगल मांगल्ये
सर्वमंगल मांगल्ये शिवे सवार्थ साधिके
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते
8) या देवी सर्वभूतेषु
या देवी सर्वभूतेषु मातृ-रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
9) मनोजवं मारुततुल्यवेगमं
मनोजवं मारुततुल्यवेगमं जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये
10) त्वमेव माता च पिता त्वमेव
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेवा
त्वमेव विद्या च द्रविणं त्वमेव
त्वमेव सर्वम् मम देवदेवं
11) ब्रह्मा मुरारिस्त्रिपुरान्तकारी
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्चा गुरुभ शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम्
12) ॐ सर्वेषां स्वस्तिर्भवतु ।
ॐ सर्वेषां स्वस्तिर्भवतु ।
सर्वेषां शान्तिर्भवतु ।
सर्वेषां पूर्णंभवतु ।
सर्वेषां मंगलंभवतु ।
ॐ शांतिः शांतिः शांतिः ॥
13)श्री राम रक्षा स्तोत्र :-
श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप् छन्द: ।
सीता शक्ति: ।
श्रीमद्हनुमान् कीलकम् ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥
वामाङ्कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥
॥ इति ध्यानम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम् । शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥
जिव्हां विद्यानिधि: पातु कण्ठं भरतवंदित: । स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥
करौ सीतापति: पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥
सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: । ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक: । पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥
एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् । स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योम चारिणश्छद्मचारिण: । न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥१३॥
वज्रपंजरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: । तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥
आराम: कल्पवृक्षाणां विराम: सकलापदाम् । अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥
आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ । रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥२०॥
संनद्ध: कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥२३॥
इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय: ॥२४॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥
LIKE | SHARE | SUBSCRIBE
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: