278. ஶ்ரீ பகவத் கீதா, ஶ்ரீ ராமானுஜ பாஷ்யம். அத்தியாயம் 13, ஸ்லோகம் 15 & 16
Автор: Devanathan Renganathan
Загружено: 2025-10-01
Просмотров: 31
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। 15 ।।
पृथिव्यादीनि भूतानि परित्यज्य अशरीरो बहिः वर्तते; तेषाम् अन्तः च वर्तते । 'जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा (छा० उ० ८।१२।३) इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिपु, अचरं
चरम् एव च-स्वभावतः अचरं चरं च देहित्वे । सूक्ष्मत्वात् तद् अविज्ञेयम्, एवं सर्वशक्तियुक्तं सर्वज्ञं तद् आत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अपि अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिः अविज्ञेयम् ।
दूरस्थं च अन्तिके च तत्, अमानित्वाद्युक्तगुणरहितानां विपरीतगुणानां पुंसां स्वदेहे वर्तमानम् अपि अतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तद् एव अन्तिके च वर्तते ।। १५ ।।
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। 16
देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मक्स्तु वेदितृत्वैकाकारतया अविभक्तम्; अविदुषां देवाद्याकारेण 'अयं देवो मनुष्यः' इति विभक्तम् इव च स्थितम् ।
'देवः अहम्' मनुष्यः अहम् इति देहसामानाधिकरण्येन अनुसंधीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तरभूतं ज्ञातुं शक्यम् इति आदौ उक्तम् 'एतद यो वेत्ति' (१३।१) इति । इदानीं प्रकारान्तरैः च देहाद अर्थान्तरत्वेन ज्ञातुं शक्यम् इति आह- भूतभर्तृ च इति ।
भूतानां पृथिव्यादीनां देहरूपेण संहृतानां यद् भर्तृ तद् भर्तव्येभ्यो भूतेभ्यः अर्थान्तरं ज्ञेयम्, अर्थान्तरम् इति ज्ञातुं शक्यमित्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेन अर्थान्तरभूतम् इति ज्ञातुं शक्यम् ।
प्रभविष्णु च प्रभवहेतुः च । ग्रस्तानामन्नादीनाम् आकारान्तरेण परिणतानां प्रभवहतुः तेभ्यः अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः ।
मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनात् न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुः इति निश्वीयते ।। १६ ।।
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्
ज्योतिषां दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्; दीपादित्यादीनाम् अपि आत्मप्रभारूपं ज्ञानम् एव प्रकाशकम् । दीपादयः तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते, तावन्मात्रेण एव तेषां प्रकाशकत्वम् । तमसः परम् उब्यते-तमः शब्दः सूक्ष्मावस्थप्रकृतिवचनः, प्रकृतेः परम् उच्यते इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम्; तत् च ज्ञानगम्यम् अमानित्वादिभिः उक्तैः ज्ञानसाधनैः प्राप्यम् इत्यर्थः । हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषेण अवस्थितं सन्निहितम् ।। १७ ॥
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ।।
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। 16 ।।1
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: