The final meeting of Rama and Sita (part 6) | The abandonment of Sita || Navaneet Galagali
Автор: Rasaganga
Загружено: 2025-08-15
Просмотров: 856
Verses referenced in the video are given below:
(Valmiki Ramayana)
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।
यदि शुद्धसमाचारा यदि वा वीतकल्मषा |
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा |
करोतु परिषन्मध्ये शोधनार्थं ममेह च ||
एवं भवतु भद्रं वो यथा तुष्यति राघवः |
इयं दाशरथे सीता सुव्रता धर्मचारिणी |
अपापा ते परित्यक्ता ममाश्रमसमीपतः ||
इमौ तु जानकीपुत्रौ उभौ च यमजातकौ |
सुतौ तवैव दुर्धर्षौ सत्यमेतत् ब्रवीमि ते ||
बहुवर्षसहस्राणि तपश्चर्या मया कृता |
नौपाश्नीनां फलं तस्या दुष्टेयं यदि मैथिली ||
इयं शुद्धसमाचारा अपापा पतिदेवता लोकापवादभीतस्य दास्यति प्रत्ययं तव
प्रत्ययो हि मम ब्रह्मन्स्तव वाक्यैरकल्मषैः |
प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसन्निधौ |
सेयं लोकभयात् ब्रह्मन् अपापेयत्यभिजानता |
परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति ||
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ |
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ||
यथाहं राघवादन्यं मनसापि न चिन्तये |
तथा मे माधवी देवी विवरं दातुम् अर्हति ||
तथा शपन्त्यां वैदेह्यां प्रादुरासीत् तदद्भुतं |
भूतलादुत्थितम् दिव्यं सिंहासनम् अनुत्तमम् ||
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायत्तो न शान्तिं मनसागमत् ॥
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनीभवत् |
#ramayana #rama #sita #sitaparityaga #sanskrit #valmiki #sanskritverse
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: