275.ஶ்ரீ மத் பகவத் கீதா, ஶ்ரீ ராமானுஜ பாஷ்யம் அத்தியாயம் 13, ஸ்லோகம் 13&14
Автор: Devanathan Renganathan
Загружено: 2025-09-02
Просмотров: 59
सर्वतः पाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतोऽक्षिशिरोमुखम् सर्वतः श्रुतिमत् सर्वतश्वक्षुरादिकार्यकृत्
'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः (श्वे०उ० ३।१९) इति परस्य ब्रह्मणः अपाणिपादस्य अपि सर्वतः पाणिपादादिकार्यकर्तृत्वं श्रूयते । प्रत्यगात्मनः अपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकर्तृत्वं श्रुतिसिद्धम् एव ।
'तदा विद्वान् पुण्यपापे विधूय निरञ्चनः परमं साम्यमुपैति' (मु०उ० ३।१।३) इति हि श्रूयते।
'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।' (१४।२) इति च वक्ष्यते ।
लोके सर्वम् आवृत्य तिष्ठति इति। लोके यद् वस्तुजाप्तं तत् सर्वं व्याप्य तिष्ठति; परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः ।
सर्वतः पाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतोऽक्षिशिरोमुखम् सर्वतः श्रुतिमत् सर्वतश्चक्षुरादिकार्यकृत्
'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः' (श्वे०उ० ३।१९) इति परस्य ब्रह्मणः अपाणिपादस्य अपि सर्वतः पाणिपादादिकार्यकर्तृत्वं श्रूयते । प्रत्यगात्मनः अपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकर्तृत्वं श्रुतिसिद्धम् एव ।
'तदा विद्वान् पुण्यपापे विधूय निरञ्चनः परमं साम्यमुपैति' (मु०उ० ३।१।३) इति हि श्रूयते ।
'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।' (१४।२) इति च वक्ष्यते
लोके सर्वम् आवृत्य तिष्ठति इति । लोके यद् वस्तुजाप्तं तत् सर्वं व्याप्य तिष्ठति; परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः ॥ १३ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैः आभासो यस्य तत् सर्वेन्द्रियगुणाभासम् । इन्द्रियगुणा इन्द्रियकृत्तयः, इन्द्रियवृत्तिभिः अपि विषयान् ज्ञातुं समर्थम् इत्यर्थः । स्वभावतः सर्वेन्द्रियविवर्जितं विना एव इन्द्रियवृत्तिभिः स्वत एव सर्वं जानाति इत्यर्थः । असक्तं स्वभावाद् एव देवादिदेहसङ्गरहितम्, सर्वभृत् च एव देवादिसर्व देहभरणसमर्थ च । 'स एकधा भवति (द्विधा भवति) त्रिधा भवति' (छा०उ० ७।२६।२) इत्यादिश्रुतेः ।
निर्गुण तथा स्वभावतः सत्त्वादिगुणरहितं गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थ च ॥ १४ ॥
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: