श्री दत्तात्रेय कवच | स्तोत्र | Shri Dattatreya Kavach | Mahanubhav Panth Stotra | Datta Stotra
Автор: Suno Mere Bhajan
Загружено: 2026-01-08
Просмотров: 13474
श्री दत्तात्रेय कवच | स्तोत्र | Shri Dattatreya Kavach | Mahanubhav Panth Stotra | Datta Stotra
श्री दत्तात्रेय कवच
नम् श्रीगुरुदत्तम् , दत्तदेवम् जगद्गुरुम् ।
निष्कलम् निर्गुणम् वन्दे , श्रीदत्तात्रेय ! नमोऽस्तुते ...... || १ ||
सुरेशवन्दितम् देवम् त्रैलोक्यलोकवन्दितम् l
हरिहरात्मभूवंद्यम् , श्रीदत्तात्रेय ! नमोऽस्तुते ............. || २ ||
ब्रह्मलोकेषु भूतेषु , शंखचक्रगदाधरम् l
पाणिपात्रधरम् देवम् , श्रीदत्तात्रेय ! नमोऽस्तुते .........।। ३ ।।
निर्मलम् रक्तवर्णच , सुंदरम् स्वांग शोभितम् ।
सुलोचनम् विशालाक्षम् , श्रीदत्तात्रेय ! नमोऽस्तुते ....... || ४ ||
विभूतिशोभितम् देहम् , हारकेयुरराजितम् ।
अनन्यकरुणाकारम् , श्रीदत्तात्रेय ! नमोऽस्तुते ...........|| ५ ||
विभूतियुक्तभालम् च , जटामुकुटमंडितम् ।
सुदीप्तौ कुण्डलौ कर्णे , श्रीदत्तात्रेय ! नमोऽस्तुते ....... || ६ ||
प्रसन्नवदनम् देवम् , भुक्तिमुक्तिप्रदायकम् ।
त्वाम् नमामि जगत्राता , श्रीदत्तात्रेय ! नमोऽस्तुते ......।। ७ ।।
राजराजम् महाराजम् , कार्तवीर्यवरप्रदम् ।
सुभद्रम् भद्रकल्याणम् , श्रीदत्तात्रेय ! नमोऽस्तुते ....... || ८ ||
अनसूयोदराजातम् , अत्रिमुनिसमुद्भवम् ।
विरक्तैर्योगिभिर्जेयम् , श्रीदत्तात्रेय ! नमोऽस्तुते ..........॥ ९ ॥
दिगम्बरम् तनुश्रेष्ठम् , ब्रह्मचारी व्रतेस्थिरम् ।
भिक्षुच्च दण्डिनम् चैव , श्रीदत्तात्रेय ! नमोऽस्तुते .....॥ १० ॥
कदायोगंम् कदाभोगम् , बाललीलाभिःशोभितम् ।
दशरत्नपक्तिम् च , श्रीदत्तात्रेय ! नमोऽस्तुते .............॥११ ॥
भूतबाधा भयोन्माद , ग्रहपीडा विनाशकम् ।
दारिद्र व्यसनोहारम् , श्रीदत्तात्रेय ! नमोऽस्तुते ........ || १२ ।।
चतुर्दश्याम् भृगौ घसे , जन्म मार्गशीर्ष शुभे ।
यस्य तम् तारकम् वदे , श्रीदत्तात्रेय ! नमोऽस्तुते ...... || १३ ||
रक्तोत्पलदलपादम , सर्वतीर्थप्रकाशकम् ।
वन्दितम् योगिभिःसर्वे , श्रीदत्तात्रेय ! नमोऽस्तुते ...... || १४ ||
ज्ञानिनम् साक्षिणम् देवम् , गतिर्मोक्षप्रदायकम् ।
आत्मभूवम् वरम् कृष्णम् , श्रीदत्तात्रेय ! नमोऽस्तुते .. || १५ ||
भृगूक्तैर्मधुरैवाक्यैः , श्रीदत्तात्रेय स्तुतिपरैः ।
साक्षादव्यक्तम् स्वयम् ब्रह्म , श्रीदत्तात्रेय ! नमोऽस्तुते || १६ ||
प्राणिनाम् सर्वजातिनाम् , कर्मपाशप्रभञ्जकम् ।
श्रीदत्तात्रेय स्तुतिस्तोत्रम् , सर्वकार्यविधायकम् ........॥ १७ ॥
अपुत्रो लाभते पुत्रम् , धनधान्यसमान्वितम् ।
राजमान्यो भवेत् लक्ष्मीम् प्राप्ताम् लभते क्षणात् ......॥ १८ ॥
त्रिसन्ध्या जपमानस्य , श्रीदत्तात्रेय स्तुतिपराम् ।
तस्यरोगभयम् नास्ति , दीर्घायुर्विजयि भवेत् .........।। १ ९ ।।
कृष्माण्डा : डाकिनी यक्षः , पिशाचःब्रह्मराक्षसः ।
स्तोत्र श्रवणमात्रेण , नश्यन्ति नात्रसशयः ...............॥२० ॥
एकविंशति श्लोकानाम , यःसहस्त्रं पठेन्नरः ।
प्रयतःप्रातरूत्थाय , साक्षादेवम् स पश्यति .. ..........॥२१ ॥
इति श्री दत्तात्रेय कवच संपूर्ण ।।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: