MAAHESHWARA LEARNING SANSKRIT is live||സംസ്കൃതപഞ്ചതന്ത്രകഥ||Sanskrit Panchatantra story.
Автор: MAAHESHWARA LEARNING SANSKRIT
Загружено: 2025-10-02
Просмотров: 402
If you want my more videos please click here 👇
/ @maaheshwaralearningsanskrit
Sanskrit story👇
धर्मबुद्धिः पापबुद्धिः च।
कस्मिंश्चित् ग्रामे धर्मबुद्धिः पापबुद्धिः च इति मित्रद्वयं वसति। कदाचित् धर्मबुद्धिः अवदत्, मित्र! देशान्तरं गत्वा आगच्छाव। कुतः? देशान्तरेषु धनार्जनस्य अवसराः अधिकाः सन्ति । तथैव अस्तु। ततः तौ देशान्तरं गतवन्तौ। तत्र धर्मबुद्धेः कौशलेन ताभ्यां प्रभूतं धनं सम्पादितम्। मित्र! प्रभूतं धनं संगृहीतम्। ग्रामं गच्छाव। तथैव अस्तु।ततः तौ ग्रामाभिमुखं प्रस्थितौ। मित्र! सर्वमपि धनं न दर्शनीयम्। यतः वित्तं न दर्शयेत् प्राज्ञः। तर्हि किं कर्तव्यम्? अत्रैव कुत्रापि सुगुप्तं कृत्वा गच्छाव। आवश्यकतायां सत्याम् आगत्य नयाव। ततः तौ वटवृक्षस्य अधः खननं कृत्वा धनं निक्षिप्य गतौ।
तस्यामेव रात्रौ पापबुद्धिः तत्र आगत्य सर्वं धनम् अनयत्। एकमासानन्तरम् , मित्र! धनस्य आवश्यकता अस्ति। वनं गत्वा धनम् आनयाव। तथैव भवतु गच्छाव।ततः तौ वनं गत्वा तावत् पश्यतः....हन्त अत्र तु धनमेव नास्ति। दुष्ट!भवानेव एतत् धनम् अपहृतवान्। मित्र अहमस्मि धर्मबुद्धिः। परद्रव्यं लोष्टवत् पश्यामि। हा हतोऽस्मि। अयं मां वञ्चितवान्। अहं ग्रामाधिकारिणं निवेदयामि। भोः भोः महाशयाः! अयं मम धनम् अपहृतवान् अस्ति। एवं वा? नैव मया कदापि तादृशं कर्म न क्रियते। अयमेव वञ्चकः। अधिकारी कथमपि न्यायनिर्णयं कर्तुं न शक्तः। भोः अयमेव धनम् अपहृतवान्। तत्र साक्षिणः सन्ति। एवम्? के सन्ति साक्षिणः? वनदेवताः। ताः मां निरपराधिनं वदिष्यन्ति। एवम्? ममापि कुतूहलमस्ति। श्वः प्रातः वयं सर्वे तद् वनं गच्छाम। तन्मध्ये पापबुद्धिः स्वगृहं गत्वा....। तात! धर्मबुद्धेः धनं मया चोरितम्। तदिदानीम् अस्माकं प्राणैः सह गच्छति। पुत्र!केन उपायेन तत् अस्मदीयमेव भवति? तात!एवं करोतु। अनन्तरदिने, भगमति वनदेवते! आवयोः मध्ये कः चोरः इति वदतु। भोः, धर्मबुद्धिः एव चोरः। अहो आश्चर्यम्। किमिदानीम् करिष्यामः? तावता धर्मबुद्धिः....हा हतोऽस्मि। ततः ज्ञातविषयाः अधिकारिणः धर्मबुद्धये धनम् अदापयन्। पापबुद्धिं च अदण्डयन्।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: