271. ஶ்ரீ மத் பகவத் கீதா, ஶ்ரீ ராமானுஜ பாஷ்யம். ஶ்ரீ உ.வே. மன்னார்குடி ஸ்வாமிகள்
Автор: Devanathan Renganathan
Загружено: 2025-06-03
Просмотров: 47
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ।। 7 ।
अमानित्वम् उत्कृष्टजनेषु अवधीरणारहितत्वम्। अदम्भित्वं धार्मिकत्वयशः प्रयोजनत्तया धर्मानुष्ठानं दम्भः तद्रहितत्वम् । अहिंसा वाड्मनः कायैः परपीडारहितत्वम् । क्षान्तिः परैः पीड्यमानस्य अपि तान् प्रति अविकृत्तचित्तत्वम् । आर्जवं परान् प्रति वाड्मनः कायवृत्तीनाम् एकरूपता। आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम् । शौचम् आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा । स्थैर्यम् अध्यात्मशास्त्रोदितेषु अर्थेषु निश्चलत्वम्। आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् ।। ७ ।।
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।। 8 ।।
इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेन उद्वेजनम् । अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्, प्रदर्शनार्थम् इदम्, अनात्मीयेषु आत्मीयाभिमानरहितत्वं च अपिविवक्षितम्। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् सशरीरत्वे जन्ममृत्युजराव्याधिदुःखस्वरूपस्य दोषस्य अवर्जनीयत्वानुसंधानम् ॥ ८ ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। १ ।।
असक्तिः आत्मव्यतिरिक्तविषयेषु सङ्गरहितत्वम्, अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण आश्लेषरहितत्वम्; नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु संकल्पप्रभवेषु इष्टानिष्टोपनिपातेषु हर्षो द्वेगरहितत्वम् ।। ९ ।।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: